|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.52. अध्यायः 052
Mahabharata - Sabha Parva - Chapter Topics
विष्णुना देवानां भूमावुत्पत्तये आज्ञापनम्॥ 1॥ अवतीर्णे कृष्णे स्वर्गादागतानामिन्द्रादीनां श्रीकृष्णं स्तुत्वा पुनः स्व लोकगमनम्॥ 2॥ श्रीकृष्णेन शकटासुरवधः। अर्जुनतरुभञ्जनम्। बृन्दावं गत्वा वने विहरणम्॥ 3॥
Mahabharata - Sabha Parva - Chapter Text
भीष्ण उवाच।
यच्चके भगवान्विष्णुर्वसुदेवसुतस्तदा।
तत्तेऽहं सम्प्रवक्ष्यामि शृणु स्रवमशेषतः॥ 2-52-1(13397)
वासुदेवस्य महात्म्यं चरितं च महात्मनः।
हितार्थं सुरसर्त्यानां लोकानां च हिताय च॥ 2-52-2(13398)
यदा दिवि विभुस्तात न रेमे भगवानसौ।
ततो व्यादिशय भूतानि विभुर्भूमिसुखावहः॥ 2-52-3(13399)
निग्रहार्थाय दैत्यानां चोदयामास वै तदा।
मुरुतश्च वसूंश्चैव सूर्याचन्द्रमसावुभौ॥ 2-52-4(13400)
गन्धर्वाप्सरसश्चैव रुद्रादित्यांस्तथाऽश्विनौ।
जायध्वं मानुषे लोके सर्वलोकमहेश्वराः॥ 2-52-5(13401)
जङ्गमानि विशालाक्षो ह्यात्मार्थमसृजत्प्रभुः।
जायन्तामिति गोविन्दस्तिर्यग्योनिगतैः सह॥ 2-52-6(13402)
तानि सर्वाणि सर्वज्ञो व्यजायत यदोः कुले।
आत्मानमात्मना तात कृत्वा बहुविधं हरिः।
रत्यर्थमिह गास्तत्र ररक्ष पुरुषोत्तमः। 2-52-7(13403)
अजातशत्रो जातस्तु यथेष्ट भुवि भूमिप।
कीर्त्यमानं मया तात निबोध भरतर्षभ॥ 2-52-8(13404)
सागराः समकम्पन्त मुदा चेलुश्च पर्वताः।
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने॥ 2-52-9(13405)
शिवाः सम्प्रववुर्वाताः प्रशान्तमभवद्रजः।
ज्योतींषि सम्प्रकाशन्त जायमाने जनार्दने॥ 2-52-10(13406)
देवदुन्दुभयश्चापि सस्वनुर्भृशमम्बरे।
अभ्यवर्षंस्तदाऽऽगम्य देवताः पुष्पवृष्टिभिः॥ 2-52-11(13407)
गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्वै मधुसदनम्।
उपतस्थुस्तदा प्रीताः प्रादुर्भावे महर्षयः॥ 2-52-12(13408)
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन्।
उपानृत्यन्नुपजगुर्गन्धर्वाप्सरसां गणाः॥ 2-52-13(13409)
उपतस्थे च गोविन्दं सहस्राक्षः शचीपतिः।
अभ्यभाषत तेजस्वी महर्षीन्पूजयंस्तदा॥ 2-52-14(13410)
कृत्वा च देवकार्याणि कृत्वा देवहितानि च।
खं लोकं लोककृद्देवः पुनर्गच्छति तेजसा॥ 2-52-15(13411)
इत्युक्त्वा ऋषिभिः सार्घं जगाम त्रिदिवं पुनः।
अभ्यनुज्ञाय तान्सर्वाञ्छादयन्प्रकृतिं पराम्॥ 2-52-16(13412)
नन्दगोपकुले कृष्ण उवास बहुलाः समाः।
ततः कदाचित्सुप्तं तं शकटस्य त्वधः शिशुम्॥ 2-52-17(13413)
यशोदा सम्परित्यज्य जगाम यमुनां नदीम्।
शिशुलीलां ततः कुर्वन्स्वहस्तचरणौ क्षिपन्॥ 2-52-18(13414)
रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन्।
पादाङ्गुष्ठेन शकटं दारयन्नथ केशवः॥ 2-52-19(13415)
तत्र एकेन पादेन पातयित्वा तथा शिशुः।
न्युब्जं पयोधराकाङ्क्षी ससार च रुरोद च॥ 2-52-20(13416)
पाटितं शकटं दृष्ट्वा भिन्नभाण्डपुटीकटम्।
जनास्ते शिशुना तेन विस्मयं परमं ययुः॥ 2-52-21(13417)
प्रत्यक्षं शूरसेनानां दृश्यते महदद्भुतम्।
शयानेन हतः कंसपक्षवांस्तिग्मतेजसा॥ 2-52-22(13418)
पूतना चापि निहता महाकाया महास्तनी।
ततः काले महाराज संसक्तौ रामकेशवौ॥ 2-52-23(13419)
कृष्णः सङ्कर्षणश्चोभौ रिङ्खिणौ च बभूवतुः।
अन्योन्यकिरणाक्रान्तौ चन्द्रसूर्याविवाम्बरे॥ 2-52-24(13420)
विसर्पन्तौ च सर्वत्र महासर्पभुजौ तदा।
रेजतुः पांसुदिग्धाङ्गौ रामकृष्णौ तदा नृप॥ 2-52-25(13421)
क्वचिच्च जानुभिः स्पृष्टौ क्रीडमानौ क्वचिद्वने।
पिबन्तौ दधिकुल्यांश्च मथ्यमाने च भारत॥ 2-52-26(13422)
ततः स बालो गोविन्दो नवनीतं तदा क्षयम्।
ग्रासमानस्तु तत्रायं गोपीभिर्ददृशे तथा॥ 2-52-27(13423)
दाम्नाऽथोलूखले कृष्णो गोपीभिश्च निबन्धितः।
तत्तथा शिशुना तेन कर्षता चार्जुनावृभौ॥ 2-52-28(13424)
समूलविटपौ भग्नौ तदद्भुतमिवाभवत्।
ततस्तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ॥ 2-52-29(13425)
तस्मिन्नेव व्रजस्थाने सप्तवर्षै बभूवतुः।
नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ॥ 2-52-30(13426)
बभुवतुर्वत्सपालौ काकपक्षधरावुभौ।
पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ॥ 2-52-31(13427)
शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ।
मयूराङ्गजकर्णौ तौ पल्लवापीडधारिणौ॥ 2-52-32(13428)
वनमालापरिक्षिप्तौ सालपोताविवोद्गतौ।
अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ॥ 2-52-33(13429)
सशिक्यतुम्बुरुकरौ गोपवेणुप्रवादकौ।
क्वचिद्वसन्तावन्योन्यं क्रडमानौ क्वचिद्वने॥ 2-52-34(13430)
पर्णशय्यासु तौ सुप्तौ क्वचिन्निद्रान्तरैषिणौ।
तौ वत्सान्पालयन्तौ हि शोभयन्तौ महद्वनम्॥ 2-52-35(13431)
चञ्चूर्यन्तौ रमन्तौ च राजन्नेवं तदा शुभम्।
ततो बृन्दावनं गत्वा वसुदेवसुतावुभौ।
गोकुलं तत्र कौन्येय चारयन्तौ विजह्रतुः॥ ॥ 2-52-36(13432)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि द्विपञ्चाशोऽध्यायः॥ 52॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|